(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.35. अध्यायः 035
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति भक्ष्याभक्ष्यपात्रापात्रविवेचनम्॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-35-0x(5407)(66151)
किं भक्ष्यं चाप्यभक्ष्यं च किंच देयं प्रशस्यते।
किंच पात्रमपात्रं वा तन्मे ब्रूहि पितामह॥ 12-35-1(66152)
व्यास उवाच। 12-35-2x(5408)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः॥ 12-35-2(66153)
ऋषयस्तु व्रतपराः समागम्य पुरा विभुम्।
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्॥ 12-35-3(66154)
कथमन्त्रं कथं दानं गम्यागम्याः कथं स्त्रियः।
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते॥ 12-35-4(66155)
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत्।
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः॥ 12-35-5(66156)
अनादेशे जपो होम उपवासस्तथैव च।
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः॥ 12-35-6(66157)
अनादिष्टं तथैतानि पुण्यानि धरणीभृतः।
सुवर्णप्राशनमपि रत्नादिस्नानमेव च॥ 12-35-7(66158)
देवस्थानाभिगमनमाज्यप्राशनमेव च।
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः॥ 12-35-8(66159)
न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः।
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत्॥ 12-35-9(66160)
अदत्तस्यानुपादानं दानमध्ययनं तपः।
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम्॥ 12-35-10(66161)
स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः।
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकः स्मृतः॥ 12-35-11(66162)
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम्।
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः॥ 12-35-12(66163)
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्।
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च।
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा॥ 12-35-13(66164)
दैवं च दैवसंयुक्तं प्राणश्च प्रलयस्तथा।
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्॥ 12-35-14(66165)
ऊर्ध्वं भवति संदेहादिहादिष्टार्थमेव च।
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते॥ 12-35-15(66166)
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः।
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये।
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति॥ 12-35-16(66167)
उपवासेनैकरात्रं दण्डोत्सर्गे नराधिपः।
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः॥ 12-35-17(66168)
क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः।
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत्॥ 12-35-18(66169)
जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान्।
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते॥ 12-35-19(66170)
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः।
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये॥ 12-35-20(66171)
अनुष्णा मृत्तिका चैव तथा क्षुद्रपिपीलिकाः।
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च॥ 12-35-21(66172)
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः।
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये॥ 12-35-22(66173)
भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः।
काको मद्रुश्च गृध्रश्च श्येनोलूकस्तथैव च॥ 12-35-23(66174)
क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये।
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः॥ 12-35-24(66175)
एडकाश्च मृगोष्ट्राणां सूकराणां गवामपि।
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः॥ 12-35-25(66176)
प्रेतान्नं सूतकान्नं च यच्च किंचिदनिर्दशम्।
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम्॥ 12-35-26(66177)
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः॥ 12-35-27(66178)
विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम्।
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः॥ 12-35-28(66179)
दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च।
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च॥ 12-35-29(66180)
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा।
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा॥ 12-35-30(66181)
परिवित्तीनामपुंसां च बन्दिद्यूतविदां तथा।
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत्॥ 12-35-31(66182)
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्।
पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा।
सक्तु धाना करम्भाश्च नोपभोग्याश्चिरस्थिताः॥ 12-35-32(66183)
पायसं कृसरं मांसमपूपाश्च वृथा कृताः।
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः॥ 12-35-33(66184)
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः।
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति॥ 12-35-34(66185)
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत्।
एवंवृत्तः प्रियैर्दारैः संबसन्धर्ममाप्नुयात्॥ 12-35-35(66186)
न दद्याद्यशसे दानं न भयान्नोपकारिणे।
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः॥ 12-35-36(66187)
न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके।
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने॥ 12-35-37(66188)
न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः।
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते॥ 12-35-38(66189)
असम्यच्कैव यद्दत्तमसम्यक् च प्रतिग्रहः।
उभयं स्यादनर्थाय दातुरादातुरेव च॥ 12-35-39(66190)
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन्।
मञ्जेत मञ्जतस्तद्वद्दाता यश्च प्रतिग्रही॥ 12-35-40(66191)
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते।
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही॥ 12-35-41(66192)
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्॥ 12-35-42(66193)
निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः।
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च॥ 12-35-43(66194)
न वै देयमनुक्रोशाद्दीनायापगुणाय तु।
आप्ताचरित इत्येव धर्म इत्येव वा पुनः॥ 12-35-44(66195)
निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते।
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा॥ 12-35-45(66196)
यथा दारुमयो हस्ती यथा चर्ममयो मृगः।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः॥ 12-35-46(66197)
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा॥ 12-35-47(66198)
ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः।
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ॥ 12-35-48(66199)
देवतानां पितॄणां च हव्यकव्यविनाशकः।
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति॥ 12-35-49(66200)
एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर।
समासेन महद्ध्येतच्छ्रोतव्यं नरतर्षभ॥ ॥ 12-35-50(66201)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-35-3 प्रजापतिं मनुम्॥ 12-35-4 कथं पात्रं दानमध्ययनं तप इति झ. पाठः। तत्र कथं केन प्रकारेण। अन्नमदनीयं किंद्रव्यक कर्तव्यमित्यर्थः॥ 12-35-5 व्यारो विस्तरः॥ 12-35-6 अनादेशे विशेषतोऽनुक्ते दोषे। यत्र देशे तत्पराः जपादिपराः प्रायः बहुशः सन्ति सोऽपि गङ्गादिवत्पावन इत्यर्थः॥ 12-35-7 तथा जपादिवत्। पुण्यान्येतानि वक्ष्यमाणानि। धरणीभृतः पर्वता ब्रह्मगिरिप्रभृतयः। आदिपदात्सुवर्णस्नानादि। अनादिष्टं प्रायश्चित्तं सामान्यमित्यर्थः॥ 12-35-9 गर्वेण युक्तो न भवेत् पूजां नावगणयेत्। अवगणने तु त्रिरात्रमुष्णपो भवेदिति तप्तकृच्छ्रं धर्मशास्त्रोक्तं कुर्यादित्यर्थः॥ 12-35-10 तप उपवासादि॥ 12-35-11 आदानं स्तेयम्। प्राणात्ययादावधर्मस्यापि स्तेयादेर्धर्मत्वमित्यर्थः॥ 12-35-12 वैदिक्यौ प्रवृत्त्यप्रवृत्ती मर्त्यात्वामृतत्वप्रदे। लौकिक्यौ तु ते शुभे चेच्छुभफले अशुभे चेदशुभफले इत्याह द्वाभ्यां द्विविधाविति॥ 12-35-13 एतयोर्लौकिक्योः। फले अपि कारणानुरूपे इत्यर्थः॥ 12-35-14 दैवयुक्तं शास्त्रीयं कर्म। प्राणो जीवनम्। एतेषां चतुर्णामप्रेक्षापूर्वं यत्किंचिक्रियते तर्ह्यशुभानो नीचानामपि पुंसां तस्य फलं शुभं भवति॥ 12-35-15 सत्यपि संदेहे यल्लोकविगानपरिहारार्थं कृतं नित्यादि यच्च केवलं दृष्टार्थं कृतं श्येनादि तत्रोभयत्रापि॥ 12-35-16 क्रोधादिना यन्मनसः प्रियमप्रियं कृतं तत्र दृष्टान्तागमहेतुभिः पूर्वोक्तैर्यावदेन इत्याद्यैः प्रमाणैर्देहस्य शोषणमुपवासादिकं प्रायश्चित्तं कर्तव्यम्। औषधैर्हविष्याशनैः। मन्त्रैश्च पवित्रजपैः। चादन्यदपि। तीर्थाटनश्रमादिभिस्तत्पापं शाम्यतीति सार्धम्॥ 12-35-18 क्षयं पुत्रादिमरणनिमित्तमात्मवधार्थं प्रवृत्तो न म्रियेत चेत् त्रिरात्रमुपवासं चरेत्॥ 12-35-19 जातिर्ब्राह्मणत्वादिः। श्रेणी गृहस्थादीनां पङ्क्तिः। अधिवासो जन्भभूमिः। जात्यादिधर्मांश्च ये वर्जयन्ति तेषां धर्मः प्रायश्चित्तादि स्वरूपो न विद्यते॥ 12-35-20 पाठकाः शोधकाः। कार्ये प्रायश्चित्तनिमित्ते दोषे॥ 12-35-25 एडका मेषी॥ 12-35-26 अभोज्यं पायसाद्यन्तर्गतम्॥ 12-35-27 अवीरायाः पतिपुत्रहीनायाः॥ 12-35-28 इन्द्रियं शुक्रम्। गणिकादित्रयाणामन्नम्॥ 12-35-29 दीक्षितस्य अग्नीषोमीयवपाहोमात्प्राङ् न भोक्तव्यम्। कदर्यो धनव्ययभयाद्भोगत्यागहीनः॥ 12-35-30 रक्षिणो ग्रामपालकस्य सीमादिरक्षिणो वा॥ 12-35-31 वाद्यमानाहृतं चान्नमिति ट.ड.थ. पाठः॥ 12-35-32 शेषितं कुटुम्बायाऽदत्त्वात्मार्थं रक्षितम्। धाना भृष्टयवाः। करम्भा दधिसक्तवः॥ 12-35-33 कृसरं तिलमिश्र ओदनः। वृथाकृताः देवताद्युद्देशं विना कृताः॥ 12-35-36 हासकेषु परिहासपरेषु भाण्डेषु॥ 12-35-37 वाग्धीने मूके मूर्खे वा॥ 12-35-42 श्वदृतौ शुनकचर्ममये कोशे॥ 12-35-43 अनुक्रोशाद्दयया॥ 12-35-44 आप्तचरित इष्टकारीति बुद्ध्या धर्मबुद्ध्या वा निर्मन्त्रे न देयमित्याह नवा इति॥ 12-35-45 निष्कारणं निष्फलम्॥ 12-35-48 निराकृतौ मूर्खे॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.